(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.102. अध्यायः 102
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति सेनाया जयचिह्नानां राजनीतेश्च कथनम्॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

युधिष्ठिर उवाच। 12-102-0x(5605)(68743)
जयिन्याः कानि रूपाणि भवन्ति भरतर्षभ।
पृतनायाः प्रशस्तानि तानि चेच्छामि वेदितुम्॥ 12-102-1(68744)
भीष्म उवाच। 12-102-2x(5606)
जयिन्या यानि रूपाणि भवन्ति भरतर्षभ।
पृतनायाः प्रशस्तानि तानि वक्ष्यामि सर्वशः॥ 12-102-2(68745)
दैवे पूर्वं प्रकुपिते मानुषे कालचोदिते।
तद्विद्व अऽनुपस्यन्ति ज्ञानदीर्घेण चक्षुषा॥ 12-102-3(68746)
प्रायश्चित्तविधिं चात्र जपहोमांश्च तद्विदः।
मङ्गल नि च कुर्वन्ति शमयन्त्यहितानि च॥ 12-102-4(68747)
उदीणानसो योधा वाहनानि च भारत।
यस्यां भवन्ति सेनायां ध्रुवं तस्या जयो भवेत्॥ 12-102-5(68748)
अन्वेव वायवो यान्ति तथैवेन्द्रधनूंषि च।
अनुप्लवन्ते मेघाश्च तथाऽऽदित्यस्य रश्मयः॥ 12-102-6(68749)
गोमायवश्चातुलोमबला गृध्राश्च सर्वशः।
अर्हयेयुर्यदा सेनां तदा सिद्धिरनुत्तमा॥ 12-102-7(68750)
प्रसन्नभाः पावकश्चोर्ध्वरश्मिः
प्रदक्षिणावर्तशिखो विधूमः।
पुण्या गन्धाश्चाहुतीनां भवन्ति
जयस्यैतद्भाविनो रूपमाहुः॥ 12-102-8(68751)
गम्भीरशब्दाश्च महास्वनाश्च
शङ्ख्याश्च भेर्यश्च नदन्ति यत्र।
युयुत्सवश्चाप्रतीपा भवन्ति
जयस्यैतद्भाविनो रूपमाहुः॥ 12-102-9(68752)
इष्टा मृगाः पृष्ठतो वामतश्च
संप्रस्थितानां च गमिष्यतां च।
जिघांसतां दक्षिणाः सिद्धिमाहु
र्ये त्वग्रतस्ते प्रतिषेधयन्ति॥ 12-102-10(68753)
माङ्गल्यशब्दाञ्शकुना वदन्ति
हंसाः क्रौञ्चाः शतपत्राश्च चाषाः।
हृष्टा योधाः सत्ववन्तो भवन्ति
जयस्यैतद्भाविनो रूपमाहुः॥ 12-102-11(68754)
शस्त्रैर्यन्त्रैः कवचैः केतुभिश्च
सुभानुभिर्मुखवर्णैश्च यूनाम्।
भ्राजिष्मती दुष्प्रतिवीक्षणीया
येषां चमूस्तेऽभिभवन्ति शत्रून्॥ 12-102-12(68755)
शुश्रूषवश्चानभिमानिनश्च
परस्परं सौहृदमास्थिताश्च।
येषां योधाः शौर्यमनुष्ठिताश्च
जयस्यैतद्भाविनो रुपमाहुः॥ 12-102-13(68756)
शब्दाः स्पर्शास्तथा गन्धा विचरन्ति मनः प्रियाः।
धैर्यं चाविशते योधान्विजयस्य मुखं च तत्॥ 12-102-14(68757)
शब्दो वामः प्रस्थितस्य दक्षिणः प्रविविक्षतः।
पश्चात्संसाधयत्यर्थं पुरस्ताच्च निषेधति॥ 12-102-15(68758)
संहत्य महतीं सेनां चतुरङ्गां युधिष्ठिर।
साम्नैव वर्तयेः पूर्वं प्रसतेथास्ततो युधि॥ 12-102-16(68759)
जघन्य एष विजयो यद्युद्धे सामभाषणम्।
यादृच्छिको युधि जयो दैवेनेति विचारणम्॥ 12-102-17(68760)
आपगेव महावेगा त्रस्ता इव महामृगाः।
दुर्निवार्यतमा चैव प्रभग्ना महती चमूः॥ 12-102-18(68761)
भग्ना इत्येव भज्यन्ते विद्वांसोऽपि न कारणम्।
उदारसारा महती रुरुसंघोपमा चमूः॥ 12-102-19(68762)
परस्परज्ञाः संहृष्टास्त्यक्तप्राणाः सुनिश्चिताः।
अपि पञ्चत्रतै शूरा निघ्नन्ति परवाहिनीम्॥ 12-102-20(68763)
अपि वा पञ्चषट्सप्तसंहिताः कृतनिश्चयाः।
क्ललीनाः पूजिताः सम्यग्विजयन्तीह शात्रवान्॥ 12-102-21(68764)
सन्निपातो न मन्तव्यः शक्ये सति कथंचन।
सान्त्वभेदप्रदानानां युद्धमुत्तरमुच्यते॥ 12-102-22(68765)
संसर्पेण हि सेनाया भयं भीरून्प्रबाधते।
वज्रादिय प्रज्वलितादियं स्वित्क्षपयिष्यति॥ 12-102-23(68766)
अमिप्रयातां समितिं ज्ञात्वा ये प्रतियान्त्यथ।
तेषां सन्दन्ति गात्राणि योधानां विवयस्य च॥ 12-102-24(68767)
विषयो व्यथते राजन्सर्वः सस्थाणुजङ्गमः।
अस्त्रप्रतापतप्तानां मज्जाः सीदन्ति देहिनाम्॥ 12-102-25(68768)
तेषां सान्त्वं क्रूरमिश्रं प्रणेतव्यं पुनः पुनः।
संपीड्यमाना हि परैर्योगमायान्ति सर्वतः॥ 12-102-26(68769)
आन्तराणां च भेदार्थं चरानभ्यवचारयेत्।
यश्च तस्मात्परो राजा तेन संधिः प्रशस्यते॥ 12-102-27(68770)
न हि तस्यान्यथा पीडा शक्या कर्तुं तथाविधा।
यथा सार्धममित्रेण सर्वतः प्रतिबाधनम्॥ 12-102-28(68771)
क्षमा वै साधुमायाति न ह्यसाधून्क्षमा सदा।
क्षमायाश्चाक्षमायाश्च पार्थ विद्धि प्रयोजनम्॥ 12-102-29(68772)
विजित्य क्षममाणस्य यशो राज्ञो विवर्धते।
महापराधे ह्यप्यस्मिन्विश्वसन्त्यपि शत्रवः॥ 12-102-30(68773)
मन्यन्ते कर्षयित्वा तु क्षमा साध्वीति शाम्बराः।
असंतप्तं तु यद्दारु प्रत्येति प्रकृतिं पुनः॥ 12-102-31(68774)
नैतत्प्रशंसन्त्याचार्या न चैतत्साधु दर्शनम्।
अक्रोधेनाविनाशेन नियन्तव्याः स्वपुत्रवत्॥ 12-102-32(68775)
द्वेष्यो भवति भूतानामुग्रो राजा युधिष्ठिर।
मृदुमप्यवमन्यन्ते तस्मादुभयभाग्भवेत्॥ 12-102-33(68776)
प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत।
प्रहृत्य च प्रियं ब्रूयाच्छोचन्निव रुदन्निव॥ 12-102-34(68777)
न मे प्रिया ये स्म हताः संप्रहृष्टाः परेऽपि च।
न च कत्थनमेवाग्र्यमुच्यमानं पुनः पुनः॥ 12-102-35(68778)
अहो जीवितमाकाङ्क्षेन्नेदृशो वधमर्हति।
सुदुर्लभाः सुपुरुषाः संग्रामेष्वपलायिनः॥ 12-102-36(68779)
कृतं ममाप्रियं तेन येनायं निहतो मृधे।
इति वाचा वदन्हन्तृन्पूजयेत रहोगतः॥ 12-102-37(68780)
हन्तॄणां च हतानां च पूजां कुर्याद्यथार्थतः।
क्रोशेद्बाहुं प्रगृह्यापि चिकीर्षञ्जनसंग्रहम्॥ 12-102-38(68781)
एवं सर्वास्ववस्थासु सान्त्वपूर्वं समाचरेत्।
प्रियो भवति भूतानां धर्मज्ञो वीतभीर्नृपः॥ 12-102-39(68782)
विश्वासं चात्र गच्छन्ति सर्वभूतानि भारत।
विश्वस्तः शक्यते भोक्तुं यथाकालं समुत्थितः॥ 12-102-40(68783)
तस्माद्विश्वासयेद्राजा सर्वभूतान्यमायया।
सर्वतः परिरक्षेच्च यो महीं भोक्तुमिच्छति॥ ॥ 12-102-41(68784)

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्व्यधिकशततमोऽध्यायः॥ 102॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-102-15 शब्दः काकस्येति शेषः॥ 12-102-22 सन्निपातो युद्धम्॥ 12-102-24 सन्निति युद्धम्। स्यन्दन्ति स्तिद्यन्ति॥ 12-102-25 विधयो देशः॥ 12-102-26 योगं सम्विम्॥ 12-102-27 आन्तराणां शत्रोः सद्धीनाम्। तस्माच्छत्रोः परः श्रेष्ठस्तेन सन्धिं च कुर्यात्॥ 12-102-29 क्षमा वै साध्वमायानां नहि साधु सदा क्षमा इति ड. थ. पाठः॥ 12-102-30 अस्मिन्क्षमावति॥ 12-102-31 असंताप्य ऋजूकृतं वंशादि पुनर्वक्रीभवत्यर्थः शत्रुं संताप्य क्षमां कुर्यादिति शम्बरस्य दैत्यस्य मतम्॥ 12-102-32 स्वमतमाह नैतदिति॥ 12-102-40 विस्वस्तो जनः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.